
About this episode
कदाचित् निर्धनः देवदत्तः धनार्जनाय पत्नीपुत्रैः सह वनं गत्वा एकस्य वृक्षस्य अधः उपविश्य रज्जुनिर्माणम् आरब्धवान् । पत्नी पुत्रौ च विविधानां वृक्षाणां त्वचः सङ्गृह्य आनीतवन्तः। स्वकार्ये दत्तचित्तान् जनान् दृष्ट्वा तस्मात् वृक्षात् एकः यक्षः प्रत्यक्षीभूय अपृच्छत् 'भवन्तः अत्र किं कुर्वन्ति?’ इति । यद्यपि देवदत्तः भीतः तथापि धैर्येण अवदत् 'भवतः पादबन्धनार्थं रज्जुनिर्माणं कुर्वन्तः स्मः' इति । भीतः यक्षः 'मां रक्षतु । वृक्षस्य दशपाददूरे बह्व्यः सुवर्णमुद्रिकाः सन्ति' इति अवदत् । देवदत्तः धनं गृहीत्वा पत्नीपुत्रैः सह स्वगृहम् आगतवान् । तस्य दारिद्र्यचिह्नानि लुप्तानि अभवत् । यत्र सुमेलनं भवति तत्र बहुसम्पदा भवति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a poor man named Devadatta went to the forest with his wife and son to earn a living. Sitting beneath a tree, he began making ropes, while his wife and son collected bark from various trees. Seeing them absorbed in their work, a yaksha appeared and asked, “What are you doing here?” Though frightened, Devadatta bravely replied, “We are making ropes to bind your feet”. Terrified, the yaksha pleaded, “Spare me! Ten steps from this tree lies a treasure of gold coins—take them”. Devadatta gathered the wealth and returned home with his family. From then on, his poverty vanished.
Get every episode summarized
Each time बालमोदिनी publishes, we email you a written briefing from the transcript — the topics, who appeared, and any specific claims, with the ad reads skipped.
Email me new episodesFree for 3 shows. No card needed.
Hosts & guests
No transcript yet
This episode has not been transcribed. Request it and it moves to the front of the queue.
More episodes



