
About this episode
कदाचित् किञ्चन विशालम् उद्यानं वातगोलकविक्रेता आगच्छत् । विविधवर्णीयानि चित्रयुतानि अनिलगोलकानि बालकाः क्रीत्वा, उड्डीयमानानि तानि दृष्ट्वा हसन्ति नृत्यन्ति च । तत्रत्याः बालकाः, वृद्धा, विक्रेता इत्यादयः सर्वे जनाः श्वेतवर्णीयाः एव । तस्मिन्नेव उद्याने कश्चन कृष्णवर्णीयः सप्तवर्षीयः निग्रोबालकः दूरतः एव वातगोलकानि पश्यति । अमेरिकादेशे गौरवर्णीयाः निग्रोजनानाम् अवलेहनां कुर्वन्ति स्म । सः विक्रेतुः समीपम् आगत्य अपृच्छत् 'किं कृष्णगोलकम् अपि आकाशे उड्डयितुं शक्नोति? कृष्णगोलकम् अपि उदानवायुं धर्तुं शक्नुयात्?’ इति । 'गोलकस्य अन्तर्भागे वर्तते उदानवायुः यः उड्डयनं कारयति एव' इति प्रत्यवदत् विक्रेता । सः बालकः विचारमग्नः सन् ग्रीवां हिनोति । शनैः शनैः दूरं गच्छति । तस्य कृष्णकपोले स्मितरेखा प्रस्फुटति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a balloon-seller came to a large garden. Children bought colorful balloons, laughed, and danced as they watched them rise into the sky. All the people there—the children, elders, and the seller—were white. In the same garden, a seven-year-old Black boy stood at a distance, watching the balloons. In America, white people often looked down upon Black people. The boy approached the seller and asked: “Will a black balloon also fly in the sky? Can it also hold the air that makes it rise?” The seller replied: “It is the air inside the balloon that makes it rise.” The boy, deep in thought, slowly walked away, a smile appearing on his dark cheeks.
Get every episode summarized
Each time बालमोदिनी publishes, we email you a written briefing from the transcript — the topics, who appeared, and any specific claims, with the ad reads skipped.
Email me new episodesFree for 3 shows. No card needed.
Hosts & guests
No transcript yet
This episode has not been transcribed. Request it and it moves to the front of the queue.
More episodes



