Skip to content
TrackPodcasts
kidsDec 25, 20255:05pending

सद्भक्तः अम्बरीषः

About this episode

कदाचित् महान्-विष्णुभक्तः राजा अम्बरीषः साधनद्वादशीव्रतम् आरब्धवान् । इन्द्रः तस्य व्रतस्य भङ्गार्थं महातपस्विनं दूर्वासमुनिं नियोजितवान् । सप्तसहस्रेण शिष्यैः सह आगतस्य मुनिवरस्य विशेषसत्कारं कृतवान् अम्बरीषः । दूर्वासमुनिः शिष्यैः सह आह्निकादिकं कर्तुं नदीं गत्वा सोद्देशम् एव शीघ्रं न आगतः । द्वादश्याः सूर्योदयसमयः आसन्नः आसीत् । व्रतभङ्गः न भवेदिति कारणतः अम्बरीषः देवाय नैवेद्यम् अर्पयित्वा स्वयं च तीर्थं सेवमानः पारणां समापितवान् । नदीतः प्रत्यागतः दूर्वासः क्रुद्धः सन् अम्बरीषस्य हननार्थं तपोबलेन काञ्चित् राक्षसीं सृष्टवान् । भक्तस्य रक्षणाय विष्णोः सुदर्शनचक्रं राक्षस्याः संहारं कृत्वा दूर्वासस्य संहराय उद्युक्तम् अभवत् । अनन्तरं विष्णोः आदेशानुसारं दूर्वासः अम्बरीषस्य शरणं गतवान् । सुदर्शनचक्रं ततः प्रत्यागच्छत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

King Ambarisha, a devoted follower of Vishnu, observed the Dvadashi fast. To disrupt it, Indra sent Sage Durvasa. Ambarisha honored him, but when Durvasa delayed at the river and sunrise neared, Ambarisha completed the ritual by offering food to the deity and sipping holy water. Angered, Durvasa created a demoness to kill him. To protect his devotee, Vishnu’s Sudarshana Chakra destroyed the demoness and turned against Durvasa himself. Terrified, Durvasa sought refuge in Vishnu, who directed him to Ambarisha. When Durvasa bowed before the king, the Chakra withdrew.

Get every episode summarized

Each time बालमोदिनी publishes, we email you a written briefing from the transcript — the topics, who appeared, and any specific claims, with the ad reads skipped.

Email me new episodes

Free for 3 shows. No card needed.

Hosts & guests

No transcript yet

This episode has not been transcribed. Request it and it moves to the front of the queue.

सद्भक्तः अम्बरीषः

बालमोदिनी

0:00
5:05

More episodes

More from बालमोदिनी

View all episodes →