
About this episode
कदाचित् लुण्ठाकाः कञ्चित् बौद्धभिक्षुम् आक्रम्य दण्डेन विध्यन्तः कर्णम् आकर्षन्तः विचित्रं मनोरञ्जनं प्राप्नुवन्ति स्म । तद् दृष्टवतः भिक्षोः नेत्रे अश्रुधारापूर्णे जाते । रोदनशीलं भिक्षुं दृष्ट्वा ते उपहासं कृतवन्तः । तदा भिक्षुः अवदत् 'अहं भवतः निमित्तीकृत्य रोदिमि । आरोग्यवन्तः बुद्धिमन्तः अस्य देशस्य निर्मातारः भवन्तः । तत्कार्यं विहाय ईदृशेषु दुष्कार्येषु मग्नाः सन्तः जीवनं व्यर्थं कुर्वन्तः सन्ति खलु इति रोदिमि' इति । एतादृश्यां वेदनामय्यां स्थित्यामपि अयं भिक्षुः अस्मद्विषये चिन्तयति इति लुण्ठकानां नेत्रेषु अश्रुधाराप्रवाहः जातः । ते भिक्षुं क्षमां सम्प्रार्थ्य तदीयाः शिष्याः जाताः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, some ruffians attacked a Buddhist monk, beating him and pulling his ears for amusement. Seeing this, tears filled the monk’s eyes. The ruffians mocked him, but the monk said: “I weep not for myself, but for you. Healthy and intelligent, you are the builders of this land. Yet, instead of noble work, you waste your lives in such misdeeds”. Hearing this, the ruffians were moved. Realizing that even in pain the monk cared for them, tears flowed from their eyes. They begged his forgiveness and became his disciples.
Get every episode summarized
Each time बालमोदिनी publishes, we email you a written briefing from the transcript — the topics, who appeared, and any specific claims, with the ad reads skipped.
Email me new episodesFree for 3 shows. No card needed.
Hosts & guests
No transcript yet
This episode has not been transcribed. Request it and it moves to the front of the queue.
More episodes



