Skip to content
TrackPodcasts
kidsDec 14, 20252:13pending

दृढः विश्वासः

About this episode

मिथिलायाम् ईश्वरस्य गङ्गामातुः च आराधकः विद्यापतिनामकः कश्चन कविः । स्वस्य अन्तिमकालः सन्निहितः इति तेन ज्ञातम् । गङ्गायाम् एव देहत्यागः भवतु इति तस्य प्रार्थना आसीत् इत्यतः चत्वारः तं दोलायां‌ संस्थाप्य 'सिमारिया घट्टं' प्रति प्रस्थितवन्तः । इतोऽपि किलोमीटर् -त्रयम् अतिक्रान्तव्यमिति विद्यापतिना ज्ञातम् । किन्तु अन्तिमकालः सन्निहितः इति ज्ञात्वा तत्रैव अवतारयन्तु इति उक्तम् तेन । सः दोलातः अवतीर्य निरन्तरं गङ्गायाः स्तवनम् आरब्धवान् । किञ्चित् कालानन्तरं क्षणाभ्यन्तरे गङ्गाप्रवाहः आगत्य विद्यापतिम् अनयत् । गच्छता कालेन तत् स्थलं 'विद्यापतिनगरम्' इति प्रख्यातम् अभवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Vidyapati, a poet and devotee of Lord Shiva and Mother Ganga from Mithila, sensed his end was near. He wished to leave his body on the banks of the Ganga. Four companions placed him on a palanquin and set out toward Simaria Ghat. Realizing they still had three kilometers to go and his final moment was approaching, Vidyapati asked to be set down. He began chanting praises of the Ganga, and miraculously, within moments, the river's flow reached him and carried him away. Over time, that place came to be known as Vidyapatinagar.

Get every episode summarized

Each time बालमोदिनी publishes, we email you a written briefing from the transcript — the topics, who appeared, and any specific claims, with the ad reads skipped.

Email me new episodes

Free for 3 shows. No card needed.

Hosts & guests

No transcript yet

This episode has not been transcribed. Request it and it moves to the front of the queue.

दृढः विश्वासः

बालमोदिनी

0:00
2:13

More episodes

More from बालमोदिनी

View all episodes →