Skip to content
TrackPodcasts
kidsNov 21, 20253:06pending

योग्यतापरीक्षा

About this episode

कश्चित् तरुणः आत्मानं शिष्यत्वेन स्वीकर्तुम् आचार्यं निवेदयति । तस्य योग्यतासामर्थ्यादिकं बहुधा परीक्ष्य सः उत्तीर्णः इति वदन् अपि एकसप्ताहानन्तरं निर्णयं श्रावयिष्यामि इति आचार्यः अवदत् । अनन्तरदिने एव आचार्यः कञ्चित् धनिकम् आहूय तरुणम् उन्नतस्थाने अधिकं वेतनम् दत्त्वा नियोजय इति अवदत् । तद्वदेव सः धनिकः अकरोत् । सप्ताहानन्तरं तं तरुणम् आहूय 'तव शिष्यत्वम् अङ्गीकृतं मया' इति यदा आचार्यः अवदत् तदा तरुणः शिरः अवनमय्य 'इदानीं प्रभूतवेतनयुक्तः उद्योगः प्राप्तः मया । कथं  त्यजामि?’ इति अवदत् । तदा अचार्यः 'अवसरे प्राप्ते अपि यः तं परित्यज्य आगच्छेत् सः एव योग्यः शिष्यः भवितुम् अर्हति' इति अवद्त् । वस्तुत्वं ज्ञातवान् सः तरुणः उद्योगं त्यक्त्वा आश्रमं प्रति आगतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

A young man sought discipleship under a wise teacher. Though qualified, the teacher delayed acceptance for a week and arranged a high-paying job for him through a wealthy person. When the teacher later accepted him as a disciple, the young man hesitated due to his new job. The teacher replied, “Only the one who is willing to abandon such an opportunity and still come is truly worthy of being a disciple” Realizing this truth, the young man renounced the job and joined the ashram.

Get every episode summarized

Each time बालमोदिनी publishes, we email you a written briefing from the transcript — the topics, who appeared, and any specific claims, with the ad reads skipped.

Email me new episodes

Free for 3 shows. No card needed.

Hosts & guests

No transcript yet

This episode has not been transcribed. Request it and it moves to the front of the queue.

योग्यतापरीक्षा

बालमोदिनी

0:00
3:06

More episodes

More from बालमोदिनी

View all episodes →