
About this episode
कदाचित् कश्चन पथिकः पञ्जरे निबद्धं शुकं नीत्वा राज्ञः समीपम् आगतवान् । सः शुकः न केवलं भाषणे समर्थः आसीत् अपि च मुखलक्षणं दृष्ट्वा भाविवृत्तान्तमपि कथयति स्म । सन्तुष्टः राजा शुकम् अपृच्छत् 'यद्यपि भवतः स्वामी पञ्जरस्य बन्धनं सर्वदा न करोति तथापि भवान् किमर्थं बहिः न पलायते?’ इति । तदा शुकः अवदत् 'अहं कृतघ्नः न । मम स्वामी माम् आश्रित्य एव जीवनं करोति । अतः स्वामिनं त्यक्त्वा गन्तुं नेच्छामि' इति । तेन सन्तुष्टः राजा पथिकाय राजभवने उद्योगं दत्त्वा तं शुकं बन्धमुक्तम् अकरोत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
One day, a traveler brought a caged parrot to the king. The parrot could not only speak but also predict future events by observing facial expressions. Pleased, the king asked, "Though your master does not always keep you locked, why don’t you escape?" The parrot replied, "I am not ungrateful. My master depends on me for his livelihood, so I do not wish to abandon him". Impressed, the king offered the traveler a job in the royal palace and freed the parrot.
Get every episode summarized
Each time बालमोदिनी publishes, we email you a written briefing from the transcript — the topics, who appeared, and any specific claims, with the ad reads skipped.
Email me new episodesFree for 3 shows. No card needed.
Hosts & guests
No transcript yet
This episode has not been transcribed. Request it and it moves to the front of the queue.
More episodes



