
About this episode
कदाचित् प्रजानुरागी राजा अरण्यमार्गे गच्छन् आसीत् । कश्चन अजापालकः वृक्षस्य अधः उपविश्य वेणुवादने मग्नः आसीत् । राजा अपृच्छत् 'साम्राज्यमेव प्राप्तवान् इव महति आनन्दे मग्नः भवान् वेणुवादनं करोति' इति । तदा अजापालकः अवदत् 'वस्तुतः वेणुवादनस्य साम्राज्यप्राप्तेः च न सादृश्यम् । अहं तु भगवच्चिन्तनं कुर्वन् सर्वचिन्ताभ्यः मुक्तः सन् मनोवाक्कायकर्मसु स्वतन्त्रः । धनस्य स्वातत्न्त्र्यस्य आनन्दस्य च न कोऽपि सम्बन्धः' इति । तस्य चिन्तनस्य श्रेष्ठताम् अवगच्छन् राजा तं नमस्कृतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A benevolent king was once traveling through a forest. Beneath a tree sat a goatherd, absorbed in playing his flute. The king asked, “You play with such joy, as though you had gained an empire.” The goatherd replied, “Flute playing is not like ruling a kingdom. I am engaged in divine contemplation, free from all worries, independent in thought, word, and deed. Joy has no link with wealth or power.” Realizing the greatness of his reflection, the king bowed to him.
Get every episode summarized
Each time बालमोदिनी publishes, we email you a written briefing from the transcript — the topics, who appeared, and any specific claims, with the ad reads skipped.
Email me new episodesFree for 3 shows. No card needed.
No transcript yet
This episode has not been transcribed. Request it and it moves to the front of the queue.
More episodes



