Loading...
Loading...

कश्चन कृषिकः तरुणः विवाहार्थं बह्वीः कन्याः दृष्टवान् चेदपि तासु कापि तस्य तृप्तये न जाता । अतः तेन अग्रे किं क्रियेत इति धिया कञ्चन गुरुम् उपसर्पति । तदा गुरुः अवदत् 'भवता उत्कृष्टं बृहदाकारकम् आम्रफलम् एकम् अन्विष्य आनेतव्यम् । पूर्वं यत्र गतं तत् स्थलं प्रति न गन्तव्यम्' इति । ततः निर्गतेन तरुणेन एकस्यां वाटिकायाम् उत्कृष्टानि आम्रफलानि दृष्टानि चेदपि अग्रे इतोSपि उत्कृष्टानि आम्रफलानि प्राप्येरन् इति विचिन्त्य सः अग्रे अगच्छत् । किन्तु न प्राप्तानि । सः विषादेन प्रत्यागत्य स्वस्य अनुभवं यदा अकथयत् तदा एतादृशी स्थितिः मा भवतु कन्यान्वेषणविषये इति गुरुः अवदत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A young farmer sought marriage but was never satisfied with the girls he saw. His teacher told him to find one excellent mango without revisiting places. Hoping for better fruit, he passed by good ones and ended up with none. The teacher explained: “Do not keep searching endlessly for something better in choosing a bride, or you may lose everything.”
No transcript yet
This episode has not been transcribed. Request it and it moves to the front of the queue.
More episodes
बालमोदिनी